शिव बिल्वाष्टकम् / Vandana Shiva / Shiva Mantra
बिल्वाष्टकम्
ॐ नमः शिवाय |
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।
त्रिजन्मपाप संहारमेकबिल्वं शिवापर्णम् ।।१।।
त्रिशाखैर्बिल्वपत्रैश्च ह्याच्छिद्रै कोमलेै: शुभै: ।
शिवपूजां करिष्यामि ह्योकबिल्वं शिवार्पणम् ।।२।।
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्धयन्ति सर्वपापेभ्यो ह्योकबिल्वं शिवार्पणम् ।।३।।
शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् ।
सोमयज्ञ महापुण्यमेकबिल्वं शिवार्पणम् ।।४।।
दन्तिकोटिसहस्त्राणि वाजपेयशतानि च ।
कोटिकन्या - महादानमेकबिल्वं शिवार्पणम् ।।५।।
लक्ष्म्याः स्तनत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्योकबिल्वं शिवार्पणम् ।।६।।
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारमेकबिल्वं शिवार्पणम ।।७।।
मूलतो ब्रहमरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्योकबिल्वं शिवार्पणम् ।।८।।
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
No comments