।। शिवषडक्षरस्तोत्रम् ।।
|
ॐ नमः शिवाय
|
ॐ कारं बिन्दुसंंयुक्तमं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ॐ काराय नमो नमः ।।१।।
नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ।।२।।
महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नमः ।।३।।
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ।।४।।
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ।।५।।
यत्र यत्र स्तिथो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ।।६।।
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ।।७।
।। इति श्रीरुद्रयामले उमा -महेश्वरसंवादे शिवषडक्षरस्तोत्रमं सम्पूर्णम ।।
No comments